|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.164. अध्यायः 164
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
युधिष्ठिरेणि भीष्मंप्रति दरिद्राणां यज्ञस्य बहुद्रव्यसाध्यत्वेन दुष्करतया तत्फलप्राप्त्यै तत्प्रतिनिधिकथनप्रार्थना॥ 1 ॥ भीष्मेण युधिष्ठिरंप्रति एकैकदिनवृद्ध्या मासावध्युपवासस्य यज्ञप्रतिनिधित्वकथनम्॥ 2 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना।
गुणाश्चैषां यथातथ्यं प्रेत्य चेह च सर्वशः॥ 13-164-1(87884)
न तै शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह।
बहूपकरणा यज्ञा नानासम्भारविस्तराः॥ 13-164-2(87885)
पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह।
नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः॥ 13-164-3(87886)
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत्।
अर्थन्यूनैरवगुणैरेकात्मभिरसंहतैः।
तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह॥ 13-164-4(87887)
भीष्म उवाच। 13-164-5x(7369)
इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम्।
विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर॥ 13-164-5(87888)
यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत्।
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम्।
षड्भिरेव स वर्षैस्तु सिध्यते नात्र संशयः॥ 13-164-6(87889)
तप्तकाञ्चनवर्णं च विमानं लभते नरः।
देवस्त्रीणामधीवासे नृत्तगीतनिनादिते।
प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसन्निभे॥ 13-164-7(87890)
त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम्।
धर्मत्नीरतो नित्यमग्निष्टोमफलं लभेत्।
यज्ञं बहुसुवर्णं वा वासवप्रियमाचरेत्॥ 13-164-8(87891)
सत्यवान्दानशीलश्च ब्रह्मण्यश्चानसूयकः।
क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम्॥ 13-164-9(87892)
पाण्डुराभ्रपतीकाशे विमाने हंसलक्षणे।
द्वे समाप्ते ततः पद्मे सोप्सरोभिर्वसेत्सह॥ 13-164-10(87893)
द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम्।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्॥ 13-164-11(87894)
अग्निकार्यपरो नित्यं नित्यं कल्यप्रबोधनः।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः॥ 13-164-12(87895)
हंससारसयुक्तं च विमानं लभते नरः।
इन्द्रलोके च वसते वरस्त्रीभिः समावृतः॥ 13-164-13(87896)
तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम्।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्॥ 13-164-14(87897)
अग्निकार्यपरो नित्यं नित्यं कल्यप्रबोधनः।
अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्॥ 13-164-15(87898)
मयूरहंसयुक्तं च विमानं लभते नरः।
सप्तर्षीणां सदा लोके सोप्सरोभिर्वसेत्सह।
निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः॥ 13-164-16(87899)
दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम्।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्।
वाजपेयस्य यज्ञस्य फलं प्राप्नीत्यनुत्तमम्। 13-164-17(87900)
इन्द्रिकन्याभिरूढं च विमान लभते नरः।
सागरस्य च पर्यन्ते वासवं लोकमावसेत्।
देवराजस्य च क्रीडां नित्यकालमवेक्षते॥ 13-164-18(87901)
दिवसे पञ्चमे यस्तु प्राश्नीयादैकभोजनम्।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्॥ 13-164-19(87902)
अलुब्धः। सत्यवादी च ब्रह्मण्यश्चाविहिंसकः।
अनसूयुरपापस्थो द्वादशाहफलं लभेत्॥ 13-164-20(87903)
जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम्।
सूर्यमालासमाभासमारोहेत्पाण्डुरं गुहम्॥ 13-164-21(87904)
आवर्तनानि चत्वारि तथा पद्मानि द्वादश।
शराग्निपरिमाणं च तत्रासौ वसते सुखम्॥ 13-164-22(87905)
दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम्।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्॥ 13-164-23(87906)
सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः।
गवामयनयज्ञस्य फलं प्राप्नोत्यनुत्तमम्॥ 13-164-24(87907)
अग्निज्वालासमाभासं हंसबर्हिणसेवितम्।
शातकुम्भसमायुक्तं साधयेद्यानमुत्तमम्॥ 13-164-25(87908)
तथैवाप्सरसामङ्के प्रतिसुप्तः प्रबोध्यते।
नूपुराणां निनादेन मेखलानां च निःस्वनैः॥ 13-164-26(87909)
कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च।
पद्मान्यष्टादश तथा पताके द्वे तथैव च॥ 13-164-27(87910)
अयुतानि च पञ्चशदृक्षचर्मशतस्य च।
लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते॥ 13-164-28(87911)
दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम्।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्॥ 13-164-29(87912)
सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन्।
सुमनोवर्णकं चैव मधु मांसं च वर्जयन्॥ 13-164-30(87913)
पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति।
तत्रतत्र हि सिद्धार्थो देवकन्याभिरुह्यते॥ 13-164-31(87914)
फलं बहुसुवर्णस्य यज्ञस्य लभते नरः।
सङ्ख्यामतिगुणां चापि तेषु लोकेषु मोदते॥ 13-164-32(87915)
यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः।
देवकार्यपरो नित्यं जुह्वानो जातवेदसम्॥ 13-164-33(87916)
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्।
पद्मवर्णनिभं चैव विमानमधिरोहति॥ 13-164-34(87917)
मृष्टाः कनकगौर्यश्च नार्यः श्यामास्तथा पराः।
वयोरूपविलासिन्यो लभते नात्र संशयः॥ 13-164-35(87918)
यस्तु संवत्सरं भुङ्क्ते नवमेनवमेऽहनि।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्॥ 13-164-36(87919)
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम्।
पुण्डरीकप्रकाशं च विमानं लभते नरः॥ 13-164-37(87920)
दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च।
नीयते रुद्रकन्याभिः सोन्तरिक्षं सनातनम्॥ 13-164-38(87921)
अष्टादशसहस्राणि वर्षाणां कल्पमेव च।
कोटीशतसहस्रं च तेषु लोकेषु मोदते॥ 13-164-39(87922)
यस्तु संवत्सरं भुङ्क्ते दशाहे वै गतेगते।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम्॥ 13-164-40(87923)
ब्रह्मकन्यानिवासे स सर्वभूतमनोहरे।
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम्॥ 13-164-41(87924)
रूपवत्यश्च तं कन्या रमयन्ति सदा नरम्।
नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा॥ 13-164-42(87925)
विमानं मण्डलावर्तमावर्तगहनाकुलम्।
सागरोर्मिप्रतीकाशं स लभेद्यानमुत्तमम्॥ 13-164-43(87926)
विचित्रमणिमालाभिर्नादितं शङ्खनिःस्वनैः।
स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम्।
आरोहति महद्यानं हंससारसवाहनम्॥ 13-164-44(87927)
एकादशे तु दिवसे यः प्राप्ते प्राशते हविः।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्॥ 13-164-45(87928)
परिस्त्रियं नाभिलषेद्वाचाथ मनसाऽपि वा।
अनृतं च न भाषेत मातापित्रोःक कृतेऽपि वा।
अभिगच्छेन्महादेवं विमानस्थं महाबलम्॥ 13-164-46(87929)
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम्।
स्वायंभुवं च पश्येत विमानं समुपस्थितम्॥ 13-164-47(87930)
कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम्।
रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम्॥ 13-164-48(87931)
वर्षाण्यपरिमेयानि युगान्तमपि चावसेत्।
कोटीशतसहस्रं च दशकोटिशतानि च॥ 13-164-49(87932)
रुद्रं नित्यं प्रणमते देवदानवसम्मतम्।
स तस्मै दर्शनं प्राप्तो दिवसेदिवसे भवेत्॥ 13-164-50(87933)
दिवसे द्वादशे यस्तु प्राप्तो वै प्राशते हविः।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम्॥ 13-164-51(87934)
नियमेन समायुक्तः सर्वमेधफलं लभेत।
आदित्यैर्द्वादशैस्तस्य विमानं संविधीयते॥ 13-164-52(87935)
मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम्।
हंसभासा परिक्षिप्तं नागवीथीसमाकुलम्॥ 13-164-53(87936)
मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम्।
अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम्॥ 13-164-54(87937)
नित्यमावसथं राजन्नरनारीसमावृतम्।
ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मिवित्॥ 13-164-55(87938)
त्रयोदशे तु दिवसे प्राप्ते यः प्राशते हविः।
सदा द्वादश मासान्वै देवसत्रफलं लभेत्॥ 13-164-56(87939)
रक्तपद्मोदयं नाम विमानं साधयेन्नरः।
जातरूपप्रयुक्तं च रत्नसञ्चयभूषितम्॥ 13-164-57(87940)
देवकन्याभिराकीर्णं दिव्याभरणभूषितम्।
पुण्यगन्धोदयं दिव्यं वादित्रैरुपशोभितम्॥ 13-164-58(87941)
तत्र शङ्कुपताके द्वे युगान्तं कल्पमेव च।
अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत्॥ 13-164-59(87942)
गीतगन्धर्वघोषैश्च भेरीपणवनिःस्वनैः।
सदा प्रह्लादितस्ताभिर्देवकन्याभिरीड्यते॥ 13-164-60(87943)
चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः।
सदा द्वादशमासांस्तु महामेधफलं लभेत्॥ 13-164-61(87944)
अनिर्देश्यवयोरूपा देवकन्याः स्वलङ्कृताः।
मृष्टतप्ताङ्गदधरा विमानैरुपयान्ति तम्॥ 13-164-62(87945)
कलहंसविनिर्घोषैर्नूपुराणां च निःखनैः।
काञ्चीनां च समुत्कर्षैस्तत्रतत्र निबोध्यते॥ 13-164-63(87946)
देवकन्यानिवासे च तस्मिन्वसति मानवः।
जाह्नवीवालुकाकीर्णं पूर्णं संवत्सरं नरः॥ 13-164-64(87947)
यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्॥ 13-164-65(87948)
राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम्।
यानमारोहते दिव्यं हंसबर्हिणलक्षणम्॥ 13-164-66(87949)
मणिमण्डलकैश्चित्रं जातरूपसमावृतम्।
दिव्याभरणशोभाभिर्वरस्त्रीभिरलङ्कृतम्॥ 13-164-67(87950)
एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम्।
वैजयन्तीसहस्रैश्च शोभितं गीतनिःस्वनै।
दिव्यं दिव्यगुणोपेतं विमानमधिरोहति॥ 13-164-68(87951)
मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम्।
वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः॥ 13-164-69(87952)
षोडशे दिवसे यस्तु सम्प्राप्ते प्राशते हविः।
सदा द्वादशमासान्वै सोमयज्ञफलं लभेत्॥ 13-164-70(87953)
सोमकन्यानिवासेषु सोऽध्यावसति नित्यशः।
सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत्॥ 13-164-71(87954)
सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च।
अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते॥ 13-164-72(87955)
फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम्।
आवर्तनानि चत्वारि साधयेच्चाप्यसौ नरः॥ 13-164-73(87956)
दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्॥ 13-164-74(87957)
स्थानं वारुणमैन्द्रं च रौद्रं वाऽप्यधिगच्छति॥ 13-164-75(87958)
मारुतं शयनं चैव ब्रह्मलोकं स गच्छति।
तत्र दैवतकन्याभिरासनेनोपचर्यते॥ 13-164-76(87959)
भूर्भुवःस्वश्च देवर्षिर्विश्वरूपमवेक्षते।
तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम्।
द्वात्रिंशद्रूपदारिण्यो मधुराः समलङ्कृताः॥ 13-164-77(87960)
चन्द्रादित्यावुभौ यावद्गगते चरतः प्रभो।
तावच्चरत्यसौ धीरः सुधातुल्यरसाशनः॥ 13-164-78(87961)
अष्टादशे यो दिवसे प्राश्नीयादेकभोजनम्।
सदा द्वादशमासान्वै सप्तलोकान्स पश्यति॥ 13-164-79(87962)
रथैः स नन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते।
देवकन्याधिरूढैस्तु भ्राजमानैः स्वलंकृतैः॥ 13-164-80(87963)
व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम्।
विमानमुत्तमं दिव्यं सुसुखि ह्यधिरोहति॥ 13-164-81(87964)
तत्र कल्पसहस्रं स कन्याभिः सह मोदते।
सुधारसं च भुञ्जीत अमृतोपममुत्तमम्॥ 13-164-82(87965)
एकोनविंशदिवसे यो भुङ्क्ते एकभोजनम्।
सदा द्वादशमासान्वै सप्त लोकान्स पश्यति॥ 13-164-83(87966)
उत्तमं लभते स्थानमप्सरोगणसेवितम्।
गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम्॥ 13-164-84(87967)
तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः।
दिव्याम्बरधरः श्रीमानयुतानां शतंशतम्॥ 13-164-85(87968)
पूर्णेऽथ विंशे दिवसे यो भुङ्क्ते ह्येकभोजनम्।
सदा द्वादशमासांस्तु सत्यवादी धृतव्रतः॥ 13-164-86(87969)
अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः।
स लोकान्विपुलान्रम्यानादित्यानामुपाश्नुते॥ 13-164-87(87970)
गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः।
विमानैः काञ्चनैर्हृद्यैः पृष्ठतश्चानुगम्यते॥ 13-164-88(87971)
एकविंशो तु दिवसे यो भुङ्क्ते ह्येकभोजनम्।
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्।
लोकमौशनसं दिव्यं शक्रलोकं च गच्छति॥ 13-164-89(87972)
अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा।
अनभिज्ञश्च दुःखानां विमानवरमास्थितः।
सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः॥ 13-164-90(87973)
द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम्।
सदा द्वादश मासान्वै जुह्वानो जातवेदसम्॥ 13-164-91(87974)
अहिंसानिरतो धीमान्सत्यवागनसूयकः।
लोकान्वसूनामाप्नोति दिवाकरसमप्रभः॥ 13-164-92(87975)
कामचारी सुधाहारो विमानवरमास्थितः।
रमते देवकन्याभिर्दिव्याभरणभूषितः॥ 13-164-93(87976)
त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम्।
सदा द्वादशमासांस्तु मिताहारो जितेन्द्रियः।
वायोरुशनसस्चैव रुद्रलोकं च गच्छति॥ 13-164-94(87977)
कामचारी कामगमः पूज्यमानोऽप्सरोगणैः।
अनेकयुगपर्यन्तं विमानवरमास्थितः।
रमते देवकन्याभिर्दिव्याभरणभूषितः॥ 13-164-95(87978)
चतुर्विंशे तु दिवसे यः प्राप्ते प्राशते हविः।
सदा द्वादशमासांश्च जुह्वानो जातवेदसम्।
आदित्यानामधीवासे मोदमानो वसेच्चिरम्॥ 13-164-96(87979)
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः।
विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे।
रमते देवकन्यानां सहस्रैरयुतैस्तथा॥ 13-164-97(87980)
पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम्।
सदा द्वादशमासांस्तु पुष्कलं यानमारुहेत्॥ 13-164-98(87981)
सिंहव्याग्रप्रयुक्तैस्तु मेघनिःस्वननादितैः।
स रथैर्नन्दिघोषैश्च पृष्ठतो ह्यनुगम्यते।
देवकन्यासमारूढैः काञ्चनैर्विमलैः शुभैः॥ 13-164-99(87982)
विमानमुत्तमं दिव्यमास्थाय सुमनोहरम्।
तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते।
सुधारसं चोपजीवन्नमृतोपममुत्तमम्॥ 13-164-100(87983)
षड्विंशे दिवसे यस्तु प्रकुर्यादेकभोजनम्।
सदा द्वादशमासांस्तु नियतो नियताशनः।
जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम्॥ 13-164-101(87984)
स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः।
सप्तानां मरुतां लोकान्वसूनां चापि सोश्नुते॥ 13-164-102(87985)
विमानैः स्फाटिकैर्दिव्यैःइ सर्वरत्नैरलङ्कृतैः।
गन्धर्वैरप्सरोभिश्चि पूज्यमानः प्रमोदते।
द्वेऽर्बुदानां सहस्रे तु दिव्ये दिव्येन तेजसा॥ 13-164-103(87986)
सप्तविंशेऽथ दिवसे यः कुर्यादेकभोजनम्।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्॥ 13-164-104(87987)
फलं प्राप्नोति विपुलं देवलोके च पूज्यते।
अमृताशी वसंस्तत्र स वितृपः प्रमोदते॥ 13-164-105(87988)
देवर्षिचरिताँल्लोकान्राजर्षिभिरनुष्ठितान्।
अध्यावसति दिव्यात्मा विमानवरमास्थितः॥ 13-164-106(87989)
स्त्रीभिर्मिनोभिरामाभी रममाणो मदोत्कटः।
युगकल्पसहस्राणि त्रीण्यावसति वै सुखम्॥ 13-164-107(87990)
योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम्।
सदा द्वादशमासांस्तु जितात्मा विजितेन्द्रियः॥ 13-164-108(87991)
फलं देवर्षिचरितं विपुलं समुपाश्नुते।
भोगवांस्तेजसा भाति सहस्रांशुरिवामलः॥ 13-164-109(87992)
सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः।
पीनस्तनोरुजघना दिव्याभरणभूषिताः॥ 13-164-110(87993)
रमयन्ति मनःकान्ता विमाने सूर्यसन्निबे।
सर्वकामगमे दिव्ये कल्पायुतशतं समाः॥ 13-164-111(87994)
एकोनत्रिंशदिवसे यः प्राशेदेकभोजनम्।
तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः॥
तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः॥ 13-164-112(87995)
विमानं सूर्यचन्द्राभं दिव्यं समधिगच्छति।
जातरूपमयं युक्तं सर्वरत्नसमन्वितम्।
अप्सरोगणसङ्कीर्णं गन्धर्वैरभिनादितम्॥ 13-164-113(87996)
तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः।
मनोभिरामा मधुरा रमयन्ति मदोत्कटाः॥ 13-164-114(87997)
भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः।
दिव्यो दिव्येन वपुषा भ्राजमान इवामरः॥ 13-164-115(87998)
वसूनां मरुतां चैव साध्यानामश्विनोस्तथा।
रुद्राणां च तथा लोकं ब्रह्मलोकं च गच्छति॥ 13-164-116(87999)
यस्तु मासे गते भुङ्क्ते एकभक्तं समाहितः।
सदा द्वादश मासान्वै ब्रह्म्लोकमवाप्नुयात्॥ 13-164-117(88000)
सुधारसकृताहार श्रीमान्सर्वमनोहरः।
तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव॥ 13-164-118(88001)
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः।
सुखेष्वभिरतो भोगी दुःखानामविजानकः॥ 13-164-119(88002)
स्वयंप्रभाभिर्नारीभिर्विमानस्थो महीयते।
रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते॥ 13-164-120(88003)
नानारमणरूपाभिर्नानारागाभिरेव च।
नानामधुरभाषाभिर्नानारतिभिरेव च॥ 13-164-121(88004)
विमाने गगनाकारे सूर्यवैडूर्यसन्निभे।
पृष्ठतः सोमसङ्करो उदर्के चाभ्रसन्निभे॥ 13-164-122(88005)
दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले।
ऊर्ध्वं विचित्रसङ्काशे नैको वसति पूजितः॥ 13-164-123(88006)
यावद्वर्षसहस्रं वै जम्बूद्वीपे प्रवर्षति।
तावत्संवत्सराः प्रोक्ता ब्रह्मलोकेऽस्य धीमतः॥ 13-164-124(88007)
विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात्।
वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः॥ 13-164-125(88008)
मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम्।
महर्षित्वमथासाद्य सशरीरगतिर्भवेत्॥ 13-164-126(88009)
मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा।
जुह्वन्नग्नींश्च नियतः सन्ध्योपासनसेविता॥ 13-164-127(88010)
बहुभिर्नियमैरेवं शुचिरश्नाति यो नरः।
अभ्रावकाशशीलश्च तस्य भानोरिव त्विषः॥ 13-164-128(88011)
दिवं गत्वा शरीरेण स्वेन राजन्यथाऽमरः।
स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते तथाविधः॥ 13-164-129(88012)
एथ ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः।
व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः। 13-164-130(88013)
दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा॥
देवद्विजातिपूजायां रतो भरतसत्तमम्॥ 13-164-131(88014)
उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः।
नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु॥ 13-164-132(88015)
दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत।
अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः॥ ॥ 13-164-133(88016)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः॥ 164 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-164-3 अवगुणैर्निर्गुणैः। एकात्मभिरेकाकिभिः। अत एवासंहतैरसहायैः॥ 7-164-6 कल्यं प्रातः॥ 7-164-10 सगाप्ते सम्पूर्णे द्वे पद्मे वर्षाणीति शेषः। शतकोटय एकं पद्मम्॥ 7-164-16 निवर्तनं नियमेन वर्तनम्॥ 7-164-22 आवर्तनानि वर्षाणि चत्वारि द्वादशचेति षोडश पद्मानि। तथा शराग्निरिति पञ्चत्रिंशत्। एवमेकपञ्चाशत्पद्मानि॥ 7-164-27 पताका महापद्माख्यसंख्याविशेषः॥ 7-164-30 सुमनोवर्णकं स्रक्च्न्दनादि॥ 7-164-59 शङ्कुपताके संख्याविशेषौ॥ 7-164-82 सुधा अमृतम्। अमृतं देवभोग्यं तदुपमम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|